"ईहाञ्चक्रे" इति। "ईह चेष्टायाम्" (धा।पा।६३२), लिट्, "इजादेश्च"
३।१।३६ इत्यादिनाऽऽम्। तस्य कृत्वे मकारान्तस्य कृदन्तत्वात् प्रातिपदिकसंज्ञा, सुः, आमः स्वरादिपाठादव्ययत्वम्, "अव्ययादाप्सुपः"
२।४।८२ इति सुलोपः, "कृञ्च"
३।१।४० इत्यादिना लिट्परस्य कृञोऽनुप्रयोगः, "आम्प्रत्ययवत्"
१।३।६३ इत्यादिनाऽऽत्मनेपदम्, तत एशादेशः, द्विर्वचनम्, अभ्यासकार्यम्। आमो मकारस्यानुस्वारः, "अनुस्वारस्य ययि परसवर्णः"
८।४।५७। अथेह कस्मान्न भवति-- जगाम,
शशामेति? अर्थवदामो ग्रहणात्, अस्य चानर्थकत्वात्। प्रत्ययस्तु "अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति" (पु।प।पा।९०) इत्यर्थवान्।
इह तर्हि कस्मान्न भवत्यम् रोग इति-- आमेति? "लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्" (व्या।प।३), अस्य तु लाक्षणिकत्वात्॥
आमः। "मन्त्रे घसह्वरे"त्यतो लेरिति, "ण्यक्षत्रियार्षञित" इत्यतो लुगिति चानुवर्तते। तदाह-- आमः परस्य लेरिति। अत्रेदमवधेयम्-- "कृन्मेजन्त" इत्यत्र कृद्यो मान्तस्तदव्ययमिति व्याख्याने एधामित्यादि नाऽव्ययं , लिट एव कृत्त्वात्, तस्य च मान्तत्वाऽभावात्। तथा च प्रत्ययलक्षणेन कृदन्तत्वात्प्रातपदिकत्वे स्वाद्युत्पत्तौ "आम" इति लुक्। लेरित तु नानुवर्तते। "मान्तं कृदन्तमव्यय"मिति व्याख्याने तु प्रत्ययलक्षणेन कृदन्तत्वादेधामिति मान्तमव्ययम्। ततः सुबुत्पत्तावव्ययादाप्सुप इति लुक्। "आम" इत्यनेन तु परिशेषाल्लेरेव लुक्सिद्धेर्लेरितिनानुवर्तनीयम्। "आमः परस्य ले"रिति विवरणवाक्ये तु लेरिति स्पष्टार्थमेव। एवं च एधामित्यव्ययं न वेति पक्षद्वयम्, उभयथापि सुबन्तं पदमिति भाष्ये स्पष्टम्।
"लक्षणप्रतिपदोक्त"परिभाषया, "प्रत्ययग्रहण"परिभाषया च नेह- आम। आमतुः। परसय् लुगिति। "मन्त्रे घसे"ति सूत्राल्लेरित्यनुवर्त्त्य "लेर्लु"गिति काशिकादौ व्याख्यातं, तदत्रोपेक्षितं, व्यावर्त्त्याऽलाभात्। तिङाद्यपवादत्वाल्लावस्थायायमेवायं लुक्। तेन आमन्तस्याऽतिङ्न्तत्वाद्देवदत्तादिपदात्परत्वेऽपि "तिङ्ङतिङः" इति न निघातः। आमन्तात्परस्य निघातश्च तिङन्तस्येत्यर्थः। न चाऽतिङन्तत्वे पदत्वाऽभावादामन्तात्परस्य निघातो न सिध्यतीति शङ्क्यं, लिटः कित्त्वात्प्रत्ययलक्षणेन कृदन्ततया प्रातिपदिकत्वे सोरुत्पत्तावामन्तस्याऽव्ययत्वात्सुपो लुक्यपि प्रत्ययलक्षणेन सुबन्ततया पदत्वात्।